PANCHMUKHI HANUMAN KAVACH PDF

Pages : 8 Size : 902 KB Language : HINDI Downloads : 57401
DOWNLOAD
। श्रीगणेशाय नमः । 
ॐ श्री पञ्चवदनायाञ्जनेयाय नमः । 
ॐ अस्य श्री पञ्चमुखहनुमन्मन्त्रस्य ब्रह्मा ऋषिः । 
गायत्रीछन्दः । पञ्चमुखविराट् हनुमान्देवता । ह्रीं बीजं । 
श्रीं शक्तिः । क्रौं कीलकं । क्रूं कवचं । क्रैं अस्त्राय फट् । इति दिग्बन्धः । 
 
। श्री गरुड उवाच । 
अथ ध्यानं प्रवक्ष्यामि श्रृणुसर्वाङ्गसुन्दरि । 
यत्कृतं देवदेवेन ध्यानं हनुमतः प्रियम् ॥ १॥ 
 
पञ्चवक्त्रं महाभीमं त्रिपञ्चनयनैर्युतम् । 
बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् ॥ २॥ 
 
पूर्वं तु वानरं वक्त्रं कोटिसूर्यसमप्रभम् । 
दन्ष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम् ॥ ३॥ 
 
अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम् । 
अत्युग्रतेजोवपुषं भीषणं भयनाशनम् ॥ ४॥ 
 
पश्चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलम् ॥ 
सर्वनागप्रशमनं विषभूतादिकृन्तनम् ॥ ५॥ 
 
उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम् । पातालसिंहवेतालज्वररोगादिकृन्तनम् ॥ ६॥ 
 
ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम् । 
येन वक्त्रेण विप्रेन्द्र तारकाख्यं महासुरम् ॥ ७॥ 
 
जघान शरणं तत्स्यात्सर्वशत्रुहरं परम् । 
ध्यात्वा पञ्चमुखं रुद्रं हनुमन्तं दयानिधिम् ॥ ८॥ 
 
खड्गं त्रिशूलं खट्वाङ्गं पाशमङ्कुशपर्वतम् । 
मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुम् ॥ ९॥ 
 
भिन्दिपालं ज्ञानमुद्रां दशभिर्मुनिपुङ्गवम् । 
एतान्यायुधजालानि धारयन्तं भजाम्यहम् ॥ १०॥
 
प्रेतासनोपविष्टं तं सर्वाभरणभूषितम् । 
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ ११॥ 
 
सर्वाश्चर्यमयं देवं हनुमद्विश्वतोमुखम् । पञ्चास्यमच्युतमनेकविचित्रवर्णवक्त्रं शशाङ्कशिखरं कपिराजवर्यम । पीताम्बरादिमुकुटैरूपशोभिताङ्गं पिङ्गाक्षमाद्यमनिशं मनसा स्मरामि ॥ १२॥ 
 
मर्कटेशं महोत्साहं सर्वशत्रुहरं परम् । 
शत्रु संहर मां रक्ष श्रीमन्नापदमुद्धर ॥ १३॥ 
 
ॐ हरिमर्कट मर्कट मन्त्रमिदं परिलिख्यति लिख्यति वामतले । 
यदि नश्यति नश्यति शत्रुकुलं यदि मुञ्चति मुञ्चति वामलता ॥ १४॥
 
ॐ हरिमर्कटाय स्वाहा । 
ॐ नमो भगवते पञ्चवदनाय पूर्वकपिमुखाय 
सकलशत्रुसंहारकाय स्वाहा । 
 
ॐ नमो भगवते पञ्चवदनाय दक्षिणमुखाय करालवदनाय 
नरसिंहाय सकलभूतप्रमथनाय स्वाहा । 
 
ॐ नमो भगवते पञ्चवदनाय पश्चिममुखाय गरुडाननाय 
सकलविषहराय स्वाहा । 
 
ॐ नमो भगवते पञ्चवदनायोत्तरमुखायादिवराहाय 
सकलसम्पत्कराय स्वाहा । 
 
ॐ नमो भगवते पञ्चवदनायोर्ध्वमुखाय हयग्रीवाय 
सकलजनवशङ्कराय स्वाहा । 
 
ॐ अस्य श्री पञ्चमुखहनुमन्मन्त्रस्य श्रीरामचन्द्र 
ऋषिः । अनुष्टुप्छन्दः । पञ्चमुखवीरहनुमान् देवता । 
 
हनुमानिति बीजम् । वायुपुत्र इति शक्तिः । अञ्जनीसुत इति कीलकम् । 
श्रीरामदूतहनुमत्प्रसादसिद्ध्यर्थे जपे विनियोगः ।
 इति ऋष्यादिकं विन्यसेत् । 
 
ॐ अञ्जनीसुताय अङ्गुष्ठाभ्यां नमः । 
ॐ रुद्रमूर्तये तर्जनीभ्यां नमः । 
ॐ वायुपुत्राय मध्यमाभ्यां नमः । 
ॐ अग्निगर्भाय अनामिकाभ्यां नमः । 
ॐ रामदूताय कनिष्ठिकाभ्यां नमः । 
ॐ पञ्चमुखहनुमते करतलकरपृष्ठाभ्यां नमः । 
इति करन्यासः । 
 
ॐ अञ्जनीसुताय हृदयाय नमः । 
ॐ रुद्रमूर्तये शिरसे स्वाहा । 
ॐ वायुपुत्राय शिखायै वषट् । 
ॐ अग्निगर्भाय कवचाय हुम् । 
ॐ रामदूताय नेत्रत्रयाय वौषट् । 
ॐ पञ्चमुखहनुमते अस्त्राय फट् । 
पञ्चमुखहनुमते स्वाहा । 
इति दिग्बन्धः । 
 
। अथ ध्यानम् । 
वन्दे वानरनारसिंहखगराट्क्रोडाश्ववक्त्रान्वितं 
दिव्यालङ्करणं त्रिपञ्चनयनं देदीप्यमानं रुचा । 
हस्ताब्जैरसिखेटपुस्तकसुधाकुम्भाङ्कुशाद्रिं हलं 
खट्वाङ्गं फणिभूरुहं दशभुजं सर्वारिवीरापहम् ।
 
। अथ मन्त्रः । 
ॐ श्रीरामदूतायाञ्जनेयाय वायुपुत्राय महाबलपराक्रमाय 
सीतादुःखनिवारणाय लङ्कादहनकारणाय महाबलप्रचण्डाय 
फाल्गुनसखाय कोलाहलसकलब्रह्माण्डविश्वरूपाय 
सप्तसमुद्रनिर्लङ्घनाय पिङ्गलनयनायामितविक्रमाय 
सूर्यबिम्बफलसेवनाय दुष्टनिवारणाय दृष्टिनिरालङ्कृताय सञ्जीविनीसञ्जीविताङ्गदलक्ष्मणमहाकपिसैन्यप्राणदाय 
दशकण्ठविध्वंसनाय रामेष्टाय महाफाल्गुनसखाय सीतासहित- 
रामवरप्रदाय षट्प्रयोगागमपञ्चमुखवीरहनुमन्मन्त्रजपे विनियोगः । 
 
ॐ हरिमर्कटमर्कटाय बंबंबंबंबं वौषट् स्वाहा । 
ॐ हरिमर्कटमर्कटाय फंफंफंफंफं फट् स्वाहा । 
ॐ हरिमर्कटमर्कटाय खेंखेंखेंखेंखें मारणाय स्वाहा । 
ॐ हरिमर्कटमर्कटाय लुंलुंलुंलुंलुं आकर्षितसकलसम्पत्कराय स्वाहा । 
ॐ हरिमर्कटमर्कटाय धंधंधंधंधं शत्रुस्तम्भनाय स्वाहा । 
ॐ टंटंटंटंटं कूर्ममूर्तये पञ्चमुखवीरहनुमते परयन्त्रपरतन्त्रोच्चाटनाय स्वाहा । 
 
ॐ कंखंगंघंङं चंछंजंझंञं टंठंडंढंणं 
तंथंदंधंनं पंफंबंभंमं यंरंलंवं शंषंसंहं 
ळंक्षं स्वाहा । 
इति दिग्बन्धः 
 
ॐ पूर्वकपिमुखाय पञ्चमुखहनुमते टंटंटंटंटं 
सकलशत्रुसंहरणाय स्वाहा । 
 
ॐ दक्षिणमुखाय पञ्चमुखहनुमते करालवदनाय नरसिंहाय 
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः सकलभूतप्रेतदमनाय स्वाहा । 
ॐ पश्चिममुखाय गरुडाननाय पञ्चमुखहनुमते मंमंमंमंमं सकलविषहराय स्वाहा । 
 
ॐ उत्तरमुखायादिवराहाय लंलंलंलंलं नृसिंहाय 
नीलकण्ठमूर्तये पञ्चमुखहनुमते स्वाहा । 
 
ॐ उर्ध्वमुखाय हयग्रीवाय रुंरुंरुंरुंरुं रुद्रमूर्तये सकलप्रयोजननिर्वाहकाय स्वाहा । 
 
ॐ अञ्जनीसुताय वायुपुत्राय महाबलाय सीताशोकनिवारणाय 
श्रीरामचन्द्रकृपापादुकाय महावीर्यप्रमथनाय ब्रह्माण्डनाथाय 
कामदाय पञ्चमुखवीरहनुमते स्वाहा । 
 
भूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिन्यन्तरिक्षग्रह- 
परयन्त्रपरतन्त्रोच्चटनाय स्वाहा । 
सकलप्रयोजननिर्वाहकाय पञ्चमुखवीरहनुमते 
श्रीरामचन्द्रवरप्रसादाय जंजंजंजंजं स्वाहा । 
इदं कवचं पठित्वा तु महाकवचं पठेन्नरः । 
एकवारं जपेत्स्तोत्रं सर्वशत्रुनिवारणम् ॥ १५॥ 
 
द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्धनम् । 
त्रिवारं च पठेन्नित्यं सर्वसम्पत्करं शुभम् ॥ १६॥ 
 
चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणम् । 
पञ्चवारं पठेन्नित्यं सर्वलोकवशङ्करम् ॥ १७॥ 
 
षड्वारं च पठेन्नित्यं सर्वदेववशङ्करम् । 
सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकम् ॥ १८॥ 
 
अष्टवारं पठेन्नित्यमिष्टकामार्थसिद्धिदम् । 
नववारं पठेन्नित्यं राजभोगमवाप्नुयात् ॥ १९॥ 
 
दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनम् । 
रुद्रावृत्तिं पठेन्नित्यं सर्वसिद्धिर्भवेद्ध्रुवम् ॥ २०॥ 
 
निर्बलो रोगयुक्तश्च महाव्याध्यादिपीडितः । 
कवचस्मरणेनैव महाबलमवाप्नुयात् ॥ २१॥ ॥ 
 
इति श्रीसुदर्शनसंहितायां श्रीरामचन्द्रसीताप्रोक्तं श्रीपञ्चमुखहनुमत्कवचं सम्पूर्णम् ॥